ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते। लीढम्। उपागूढम्। ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौ कते इत्यत्र तु जश्वे कृते कार्यं न अस्ति इति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति। तत्र हि श्रुतिकृतमानन्तर्यम् अस्ति। शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकते इत्यत्र तु न श्रुतिकृतमनन्तर्यम्, न शास्त्रकृतम् इति अविषयो ऽयं ढलोपस्य।
"ढे" इति वर्णमात्रं निमित्तत्वेनाश्रीयते; न वर्णसमुदायः।
कुत एतत्()? व्याप्त्या। अकार उच्चारणार्थः। वर्णग्रहणे तु सति लीढ्वा, मीढ्वेत्यादावपि भवति; अन्यथा हि यदि वर्णसमुदायो निमित्तत्वेनाधीयते तदा लौढम्(), मीढमित्यादावेव स्यात्(), न तु लीढवेत्यादौ। "लीढम्()" इत्यादि। "लिह आस्वादने" (धापा।१०१६) "मिह सेचने" (दा।पा।९९२), "गुहू संवर्णे" (धा।पा।८९६)--एभ्यः [एभ्यः "ष्टुना ष्टुः" इति ष्टुत्वम्()--कांउ।पाठः] क्तः, "हो ढः"
८।२।३१ इति ढत्वम्(), "झवस्तथोर्धोऽधः" ९८।२।४०) इति धत्वम्()। "ष्टुना ष्टुः"
८।४।४० इति ष्टुत्वम्(), ढलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः"
६।३।११० इति दीर्घः।
कथं पुनर्लीढमित्याद्युदाहणमुपपद्यते,
यावता ढकारोऽत्र परनिमित्तं नास्त्येव ढलोपे कत्र्तव्ये ष्टुत्वस्यासिद्धत्वात्()? इत्यत--"ष्टुत्वस्य" इति। ढकारोऽत्र ढलोपनिमित्तनाश्रीयते,
न चासौ क्वचित्? सिद्धः सम्भवति यत्रानेन ढलोपः कत्र्तव्यः।
तस्माद्? ढकारस्य निमित्तत्वेनाश्रयणादेव ष्टुत्वस्य सिद्धत्वं वेदितव्यम्(); अन्यथा ह्रस्य वचनस्य वैयथ्र्यं स्यात्(); अनवकाशत्वात्()।
स्यादेतत्()। ()आलीङ्ढौकत इत्यनेन ढलोपो भविष्यति, सिद्धो ह्रत्र ढकारः,
तत्? कुतो वचनस्य वैयथ्र्याम्()? इत्याह"()आलिङ्ढौक्ते" इत्यादि। यद्यप्यत्र निमित्तं ढकारः सिद्धः, तथापि नैव ढलोप उपपद्यते; जश्त्वे कृते कार्यिणो ढकारस्याभावात्()।
ननु च निर्विषयत्वाङ्ढलोपो जश्त्वापवादो भविष्यति? इत्याह--"न च" इत्यादि।
कुत एतत्()? इत्याह--"तस्य हि" इत्यादि। यदि हि तस्य विषयो न सम्भाव्येत, ततो जशत्वापवादः सक्यते विज्ञातम्()। सम्भवति चास्य विषयो लीढाटिः, तस्मान्न शक्यौऽसौ जशत्वापदाद इति विज्ञातुम्()।
कथं पुनर्लीढादिरस्य विषयः पावता यथा ()आलिङ्ढौकत इत्यत्र जश्त्वे कृते कार्यिणोऽसम्भवाङढलोपस्या विषयः, तथा लोढादावपवि ष्टुतवस्यासिद्धत्वे सति निमित्तस्याभावात्()।
अथात्र वचनसमाथ्र्याडढलोपेन ष्टुत्वस्यासिद्धत्वं बाध्यते? इतरत्रापि जश्त्वं कस्मान्न बाध्यते; तस्माद्यदि पुनर्लीढाविढंलोपस्य विषय इत्तरेणापि तद्विषयेण भवितव्यम्(), न तु लीढादिनैवेतरत्रापीत्यत आह--"तत्र हि" इत्यादि। इह "ढे" इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्(); न तु लीढादिनैवेतरत्रापीत्यत आह--"तत्र हि" इत्यादि। इह "ढे" इति सप्तमीनिर्देशा तद्विषयेण भवितध्यम्(), न तु लीढादिनैवेतरत्रापीत्यत आह--"तत्र हि" इत्यादि। इह "ढे" इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्(); निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्()। ततश्चानन्तर्ये सति ढलोपेन भवितव्यम्()। अस्ति च लोढादो श्रुतिकृतमानन्तर्यम्(), उभयोर्निमित्तकार्यिणोर्ढकारयोः श्रयमाणत्वात्()।
तस्मादेष एव ढलोपस्य विषयः? सत्यमिहासत्यानन्तर्यं श्रुतिकृतम्(); अनानन्तर्यमप्यस्ति शास्त्रकृतम्(); शास्त्रेण ष्टुत्वस्यासिद्धत्वोपादानात्()।
सति च तस्मिन्? सोऽपि न ढलोपस्य विषय इत्यत आह--"शास्त्रकृतम्(); शास्त्रेण ष्टत्वस्यासिद्धत्वोपादानात्()। सति च तस्मिन सोऽपि न ढलोपस्य विषय इत्यत आह--"शास्त्रकृतम्()" इत्यादि। विद्यमानमपि शास्त्रकृतमनान्तर्यं ढलोपेन बाध्यते; अन्यथा हि वचनवैयध्र्यं स्यात्()। यथा शास्त्रकृतमनानन्तर्यं वचनसामथ्र्याद्बाधित्वा ढलोपो भवति, तथा श्यलिङ्ढौकत इत्यत्रापि श्रुतिकृतमानानन्तर्यं बाधित्वा ढलोपः स्यादित्याह--"()आलिङ्ढौकत इत्यत्र तु" इत्यत्र तु" इत्यादि। तुशब्दो लौढादेरस्य विशेषं दर्शयति। अत्र लीढादौ हि यद्यपि शास्त्रकृतमानन्तर्यं नास्ति, श्रुतिकृतं त्वस्ति। इह तु नापि श्रुतिकृतमानन्तर्यं द्वयोर्ढकारयोरश्रूयमाणत्वात्(), नापि शास्त्रकृतम्(), शास्त्रेण जशत्वस्यासिद्धत्वानुपायनात्()। तस्मान्नैव ढलोपस्य विषयः॥
इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे "झषस्तथोर्धोऽधः" इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे,
गाढ्--ढा इति स्थिते-- इडभावे तु गाह्? ता इति स्थिते ढो ढे। "ढः" इति षष्ठ()न्तम्। तदाह--ढस्येति। ढकारस्येत्यर्थः। इति पूर्वस्य ढकारस्य लोपे "गाढा" इति रूपम्। ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात्। घाक्ष्यते इति। इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः। अगाहिष्टेति। सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः। इडभावे त्वाह-- अगाढेति। अगाह् स् त इति स्थिते सिच इडभावे "झलो झली"ति लोपः। ढत्वधत्वष्टुत्वढलोपः। सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतया "झलो झली"ति सलोपस्य पूर्वं प्रवृत्तेः। न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः। अधाक्षातामिति। इडभावपक्षे ढघकषाः। अघाक्षतेति। पूर्ववत्। अगाढा इति। थास् सिच्। इडभावे सलोपः। ढत्वधत्वष्टुत्वढलोपाः। अघाढ्वमिति। ध्वमि इडभावपक्षे सलोपः। ढत्वघत्वष्टुत्वढलोपाः। ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः। अघाक्षीति। इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव-। अघाक्ष्वहि। अघाक्ष्महि। अगाहिष्यत अघाक्ष्यत। गृहूधातुरूदित् ऋदुपधः। गर्हते इति। लटस्तिपि शपि लघूपधगुणे रपरत्वम्। जगृहे इति। "असंयोगा"दिति कित्त्वाद्गुणाऽभावः। न च कित्त्वात् परत्वाद्गुणः शङ्क्यः , "ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने"ति वार्तिकादिति भावः। ऊदित्त्वादिड्विकल्पं मत्वा आह-- जगृहिषे जघृक्षे इति। अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम्। इडभावे तु ढत्वभष्भावकत्वषत्वानि। ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह--जघृढ्वे इति। हस्य ढः, भष्भावष्टुत्वढलोपाः। गर्ढेति। इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः। घक्ष्र्यते इति। गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम्। अगर्हिष्टेति। सिच इटि गुणे रपरत्वे षत्वे रूपम्।